दीप आलोकम् -उर्मिला देवी उर्मि



प्रकाशोत्सवम् दीपावलिम् सर्वे इत्थम् आचरन्तु ।
दीपोत्सवे आनंदेन सह दीप प्रज्वलनम् कुर्वन्तु ।
देश रक्षणे यै: सैनिकै: निज्जीवनम् अर्पितम्।
तेषां कृते अपि एकमेकम् दीपम् ,प्रकाशयन्तु ।
गृहाणि दीपालोकेन अयोध्याया: रूपम् प्रयच्छंतु।
सर्वेषाम् हृदये निवासार्थम् सद्वृत्तिम् आह्वयन्तु ।
लंकाविजयम् अधर्मोपरि धर्मविजय अवगच्छन्तु ।
दीनानाम् मनांसि विविध आनंदेन पूरयन्तु ।
लंकाविजयी रामस्य प्रेरकत्वम् सदा स्वीकुर्वंतु ।
दीपानाम् विक्रयार्थम् य: आशान्वित: दृश्यते ।
तस्य अभिलाषाम् पूरयित्वा पुण्य अर्जनम् कुर्वंतु ।
यश- वैभवम् आनंदम् प्राप्य सुखिन: भवन्तु ।
दीपोत्सवस्य उल्लासम् सर्वत्र एव वितरन्तु ।
जयतु भारतम् , मम अतुल्य भारतम् गायन्तु ।
पारस्परिकान् सर्वान् भेदभावान् विस्मृत्य ।
राष्ट्रहिते श्रेष्ठम् कृत्वा श्रेष्ठतमार्थम् प्रयतन्तु ।
उर्मिला देवी उर्मि
साहित्यकार , शिक्षाविद , सामाजिक चिंतक
रायपुर, छत्तीसगढ