संस्कृत सप्ताहस्य समापन समारोहम् रायपुर नगरे संपन्नम्

रायपुरे। वदतु संस्कृतम् .. संस्कृत सप्ताहस्य समापन काले १४/८/२२ तमे दिनांके छत्तीसगढ़स्य राजधानी रायपुर नगरस्य श्री राम मंदिरे पावन कार्यक्रमस्य आयोजनम् संस्कृत भारती छत्तीसगढ द्वारा कृतम् । समारोहस्य शुभारंभे संस्थाया : प्रांताध्यक्ष श्री सतेंद्र सेन्गर , प्रांतमंत्री डॉ. दादू भाई त्रिपाठी , साहित्य प्रभारी श्रीमती उर्मिला देवी उर्मि , संगठन मंत्री श्री हेमंत साहू आदिभि : दीप प्रज्वलनम कृतम् । उर्मिला देवी द्वारा संस्कृत भाषायाम् स्वरचितस्य गीतस्य प्रभावशालिनी प्रस्तुति दत्ता ।तदनंतरम् तत्र उपस्थितै : विद्वद्भि : संस्कृत भाषाया: प्रचार प्रसाराय स्व स्व मतम् प्रकटी कृतम् । संस्कृते गायन- नृत्यादीनाम् अपि रमणीया: प्रस्तुति अभवत् ।अध्यक्ष महोदयस्य उद्बोधनम् सर्वेषां कृते प्रेरको आसीत् । कार्यक्रमस्य संचालनम् डॉ. दादू भाई त्रिपाठी महोदयेन कृतम् । प्रवीण महोदयेन आभारम् ज्ञापितवान् । छात्रा अनुपमाया: नृत्यम् सर्वै: प्रशंसितम ।।
जयतु संस्कृतम् 🇮🇳जयतु भारतम्

